वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣢ ह꣣ꣳसा꣡स꣢स्तृ꣣प꣡ला꣢ व꣣ग्नु꣢꣫मच्छा꣣मा꣢꣫दस्तं꣣ वृ꣡ष꣢गणा अयासुः । अ꣣ङ्गोषि꣢णं꣣ प꣡व꣢मान꣣ꣳ स꣡खा꣢यो दु꣣र्म꣡र्षं꣢ वा꣣णं꣡ प्र व꣢꣯दन्ति सा꣣क꣢म् ॥१११७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र हꣳसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः । अङ्गोषिणं पवमानꣳ सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् ॥१११७॥

मन्त्र उच्चारण
पद पाठ

प्र । ह꣣ꣳसा꣡सः꣢ । तृ꣣प꣡ला꣢ । व꣣ग्नु꣢म् । अ꣡च्छ꣢꣯ । अ꣣मा꣢त् । अ꣡स्त꣢꣯म् । वृ꣡ष꣢꣯गणाः । वृ꣡ष꣢꣯ । ग꣣णाः । अयासुः । अङ्गोषि꣡ण꣢म् । प꣡व꣢꣯मानम् । स꣡खा꣢꣯यः । स । खा꣣यः । दुर्म꣡र्ष꣢म् । दुः꣣ । म꣡र्ष꣢꣯म् । बा꣣ण꣢म् । प्र । व꣣दन्ति । साक꣢म् ॥१११७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1117 | (कौथोम) 4 » 2 » 1 » 2 | (रानायाणीय) 8 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

कैसे शिष्य कैसे आचार्य के पास विद्या पढ़ने के लिए जाते हैं, यह अगले मन्त्र में कहा गया है।

पदार्थान्वयभाषाः -

(तृपला) शीघ्रकारी, (वृषगणाः) धार्मिक गणवाले, (हंसासः) हंसों के समान नीरक्षीर विवेकी, निर्मल हृदयवाले छात्र (अमात्) विद्याबल प्राप्त करने के हेतु से (वग्नुम् अच्छ) वाचस्पति आचार्य के प्रति (अस्तम्) गुरुकुलरूप घर में (अयासुः) जाते हैं। (सखाय) सहाध्यायी वे (साकम्) एक साथ मिलकर (अङ्गोषिणम्) वेदों का आघोष करनेवाले, (पवमानम्) ह्रदयों को पवित्र करनेवाले, (दुर्मर्षम्) दुर्धर्ष, (वाणम्) सेवनीय आचार्य को (प्रवदन्ति) पढ़ाने के लिए निवेदन करते हैं ॥२॥ यहाँ ‘हंसासः’ में लुप्तोपमा है। वाणीवाचक ‘वग्नु’ शब्द लक्षणावृत्ति से ‘वाचस्पति’ अर्थ को लक्षित करता है, जिसमें वाणी पर अधिकार का अतिशय व्यङ्ग्य है ॥२॥

भावार्थभाषाः -

सुयोग्य गुरुजन सुयोग्य शिष्यों को जब पा लेते हैं,तभी दोनों यशस्वी होते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कीदृशाः शिष्याः कीदृशमाचार्यं प्रति विद्याध्ययनाय गच्छन्तीत्याह।

पदार्थान्वयभाषाः -

(तृपला) शीघ्रकारिणः। [तृपल इति क्षिप्रनाम। निरु० ५।१२। सुपां सुलुक्० अ० ७।१।३९ इति जसः आकारादेशः] (वृषगणाः) वृषः धार्मिकः गणो येषां तथाविधाः (हंसासः) हंससदृशाः नीरक्षीरविवेकिनो निर्मलहृदयाः छात्राः (अमात्) बलाद्धेतोः, विद्याबलं प्राप्तुमित्यर्थः। [अम इति बलनाम। निरु० १०।२१।] (वग्नुम् अच्छ) वाचस्पतिम् आचार्यं प्रति। [वग्नुः इति वाङ्नाम। निघं० १।११, लक्षणया वाचस्पतिर्गृह्यते।] (अस्तम्) गृहम्, गुरुकुलम् (प्र अयासुः) प्र गच्छन्ति। (सखायः) सहाध्यायिनः ते (साकम्) सार्धं मिलित्वा (अङ्गोषिणम्) वेदानाम् आघोषकर्तारम्। [आङ्गूषः स्तोम आघोषः। निरु० ५।११।] (पवमानम्) हृदयानि पवित्रयन्तम्, (दुर्मर्षम्) दुर्धर्षम् (वाणम्२) संभजनीयम् आचार्यम्। [वन संभक्तौ, वन्यते सेव्यते इति वाणः।] (प्र वदन्ति) अध्यापनाय निवेदयन्ति ॥२॥ अत्र हंसासः इति लुप्तोपमम्। वाग्वाचको वग्नुशब्दो लक्षणावृत्त्या वाचस्पतिं लक्षयति, वाग्मित्वातिशयो व्यङ्ग्यः ॥२॥

भावार्थभाषाः -

सुयोग्या गुरवः सुयोग्यान् शिष्यान् यदा प्राप्नुवन्ति तदैवोभये कीर्तिमन्तः सञ्जायन्ते ॥२॥

टिप्पणी: १. ऋ० ९।९७।८, ‘तृ॑पलं॑ म॒न्यु॒मच्छा॒’ इति पूर्वार्द्धे, ‘आ॒ङ्गू॒ष्यं  पव॑मानं॒ सखा॑यो दु॒र्मर्षसा॒कं प्र व॑दन्ति वा॒णम्’ इति चोत्तरार्द्धे पाठः। २. पवमानं सोममुद्दिश्य वाणं वाद्यविशेषं साकं सहैव प्रवदन्ति प्रवादयन्ति, तदुपलक्षितं गानं कुर्वन्तीत्यर्थः इति सा०। वाणं वादित्रविशेषम्, यथा वाणस्य शततन्त्रीकस्य जायते शब्दः तद्वत् सोमस्य जायमानस्य महान् शब्दः इति वि०।